Class 7 Sanskrit Chapter 1: वन्दे भारतमातरम् Vande Bharatamataram

Class 7 Sanskrit Chapter 1: वन्दे भारतमातरम् Vande Bharatamataram


Class 7 Sanskrit Chapter 1 Vande Bharatamataram Question Answers (अभ्यासः)

1. एकपदेन पदद्वयेन वा उत्तरं लिखन्तु (Answer in one or two words)

  • (क) पर्वतराजः कः ? उत्तरम्: हिमालयः
  • (ख) समुद्रः कस्याः चरणौ प्रक्षालयति ? उत्तरम्: भारतमातुः
  • (ग) त्रिवर्णयुक्तः ध्वजः कुत्र विलसति ? उत्तरम्: भारतमातुः हस्ते
  • (घ) ध्वजस्थः केशरवर्णः अस्मान् किं वक्तुम् प्रेरयति ? उत्तरम्: ‘जयतु सैनिकः’ इति
  • (ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति ? उत्तरम्: स्व-स्वेदबिन्दुभिः
  • (च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति ? उत्तरम्: वैज्ञानिकानाम्
  • (छ) सूर्यः कं विना नित्यं सञ्चरति ? उत्तरम्: विरामम्

2. पूर्णवाक्येन उत्तरं लिखन्तु (Answer in full sentences)

  • (क) पवित्राः नद्यः काः ? उत्तरम्: गङ्गा, यमुना, सरस्वती, सिन्धुः, ब्रह्मपुत्रः, गण्डकी, महानदी, नर्मदा, गोदावरी, कृष्णा, कावेरी इत्यादयः पवित्राः नद्यः सन्ति।
  • (ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति ? उत्तरम्: विविधेभ्यः प्रदेशेभ्यः जनाः तीर्थक्षेत्राणां धूलं ललाटे स्थापयितुम् आगच्छन्ति।
  • (ग) धर्मचक्रं किं भावं बोधयति ? उत्तरम्: धर्मचक्रं ‘चलीयं कर्तव्यपथे वै, न विरम, सततं चल’ इति भावं बोधयति।
  • (घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता ? उत्तरम्: कृषकबान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी समृद्धा सस्यश्यामला च सञ्जाता।
  • (ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम् ? उत्तरम्: विज्ञानस्य अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्साशास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु विविधेषु क्षेत्रेषु भारतीयैः यशः प्राप्तम्।
  • (च) अन्ते सर्वे किं गीतं गायन्ति ? उत्तरम्: अन्ते सर्वे “वयं बालका भारतभक्ताः वयं बालिका भारतभक्ताः। वयं हि सर्वे भारतभक्ताः पृथिवीं स्वर्गं जेतुं शक्ताः॥” इति गीतं गायन्ति।

3. रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु (Frame questions using the underlined words)

  • (क) समुद्रः भारतमातुः चरणौ प्रक्षालयति। प्रश्ननिर्माणम्: समुद्रः कस्याः चरणौ प्रक्षालयति ?
  • (ख) जनाः तीर्थक्षेत्राणां धूलं ललाटे स्थापयन्ति। प्रश्ननिर्माणम्: जनाः केषाम् धूलं ललाटे स्थापयन्ति ?
  • (ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः। प्रश्ननिर्माणम्: के भारतमातुः सर्वदा सेवां कृतवन्तः ?
  • (घ) ‘जयतु कृषकः’ इति वक्तुम् अस्मान् प्रेरयति। प्रश्ननिर्माणम्: किम् इति वक्तुम् अस्मान् प्रेरयति ?
  • (ङ) नदी कष्टानि सहमाना प्रवहति। प्रश्ननिर्माणम्: नदी कानि सहमाना प्रवहति ?
  • (च) वयं गौरववर्धनाथै प्रयत्नं कुर्मः। प्रश्ननिर्माणम्: वयं किमर्थम् प्रयत्नं कुर्मः ?

4. उदाहरणानुसारं रिक्तस्थानेषु रूपाणि लिखन्तु (Fill in the blanks with correct Noun Forms)

पदम्एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
(क) चरणचरणम्चरणौचरणान्द्वितीया विभक्तिः
(ख) नदीनदीनद्यौनद्यःप्रथमा विभक्तिः
(ग) ललाटललाटेललाटयोःललाटेषुसप्तमी विभक्तिः
(घ) देशदेशायदेशाभ्याम्देशेभ्यःचतुर्थी विभक्तिः
(ङ) चक्रचक्रम्चक्रेचक्राणिप्रथमा विभक्तिः
(च) वैज्ञानिकवैज्ञानिकेनवैज्ञानिकाभ्याम्वैज्ञानिकैःतृतीया विभक्तिः
(छ) अस्मद्अहम्आवाम्वयम्प्रथमा विभक्तिः
(ज) विज्ञानविज्ञानस्यविज्ञानयोःविज्ञानानाम्षष्ठी विभक्तिः

5. वाक्यानाम् अनुवादं कुर्वन्तु (Translate the following sentences)

  • (क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति।
    • English Translation: Holy rivers flow in the land of India.
    • Hindi Translation: भारत भूमि पर पवित्र नदियाँ बहती हैं।
  • (ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते।
    • English Translation: The Himalayas shine like a crown on the head of India.
    • Hindi Translation: भारत के मस्तक पर हिमालय मुकुट के रूप में सुशोभित होता है।
  • (ग) भारतभूमौ श्रेष्ठः पर्वताः विराजन्ते।
    • English Translation: Great mountains adorn the land of India.
    • Hindi Translation: भारत भूमि पर श्रेष्ठ पर्वत विराजमान हैं।
  • (घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति।
    • English Translation: There are saffron, white, and green colors in the national flag.
    • Hindi Translation: राष्ट्रध्वज में केसरिया, सफेद और हरा रंग है।
  • (ङ) वयं भारते जन्म प्राप्तवन्तः।
    • English Translation: We have taken birth in India.
    • Hindi Translation: हमने भारत में जन्म लिया है।

6. विभक्तिं वचनं च लिखन्तु (Write the Case/Vibhakti and Number/Vachanam)

शब्दःविभक्तिःवचनम्
(क) भारतमाताप्रथमा विभक्तिःएकवचनम्
(ख) नद्यःप्रथमा विभक्तिःबहुवचनम्
(ग) ललाटेसप्तमी विभक्तिःएकवचनम्
(घ) तीर्थक्षेत्राणाम्षष्ठी विभक्तिःबहुवचनम्
(ङ) देशस्यषष्ठी विभक्तिःएकवचनम्
(च) बलिदानम्द्वितीया / प्रथमा विभक्तिःएकवचनम्
(छ) कृषीवलबान्धवाःप्रथमा विभक्तिःबहुवचनम्
(ज) अस्मान्द्वितीया विभक्तिःबहुवचनम्
(झ) क्षेत्रेषुसप्तमी विभक्तिःबहुवचनम्

7. पाठे प्रयुक्तानि क्रियापदानि लिखन्तु (Write Verbs used in the chapter)

उत्तरम्: शृणुमः, जानीमः, अस्ति, लिखितवान्, करोमि, वर्ण्यते, शोभते, प्रक्षालयति, विराजन्ते, प्रवहन्ति, आगच्छन्ति, प्रेरयति, सिञ्चन्ति, बोधयति, सञ्चरति, भवेत्, कुर्मः, इच्छामः, भवामः, गायन्ति।


8. लट्-लकारस्य रूपाणि लिखन्तु (Verb Conjugations – Present Tense)

1. भू (भवति) धातु

  • प्रथमपुरुषः: भवति | भवतः | भवन्ति
  • मध्यमपुरुषः: भवसि | भवथः | भवथ
  • उत्तमपुरुषः: भवामि | भवावः | भवामः

2. अस् (अस्ति) धातु

  • प्रथमपुरुषः: अस्ति | स्तः | सन्ति
  • मध्यमपुरुषः: असि | स्थः | स्थ
  • उत्तमपुरुषः: अस्मि | स्वः | स्मः

3. इष् (इच्छति) धातु

  • प्रथमपुरुषः: इच्छति | इच्छतः | इच्छन्ति
  • मध्यमपुरुषः: इच्छसि | इच्छथः | इच्छथ
  • उत्तमपुरुषः: इच्छामि | इच्छावः | इच्छामः

4. आ + गम् (आगच्छति) धातु

  • प्रथमपुरुषः: आगच्छति | आगच्छतः | आगच्छन्ति
  • मध्यमपुरुषः: आगच्छसि | आगच्छथः | आगच्छथ
  • उत्तमपुरुषः: आगच्छामि | आगच्छावः | आगच्छामः

error: Content is protected !!