Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्मः

Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्मः


Class 7 Sanskrit Chapter 5 “सेवा हि परमो धर्मः” Question Answers (अभ्यासः)

१. अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु — (Answer in one or two words)

  • (क) कः प्रसिद्धः चिकित्सकः आसीत् ?
    • उत्तरम्: नागार्जुनः
  • (ख) अन्यस्मिन् दिवसे कौ आगतवन्तौ ?
    • उत्तरम्: द्वौ युवकौ
  • (ग) कः खिन्नः आसीत् ?
    • उत्तरम्: द्वितीयः युवकः
  • (घ) रुग्णस्य परिस्थितिः कथम् आसीत् ?
    • उत्तरम्: शोचनीया
  • (ङ) नागार्जुनः सहायकरूपेण कं चितवान् ?
    • उत्तरम्: द्वितीयं युवकम्
  • (च) कां विना चिकित्सकः न भवति ?
    • उत्तरम्: सेवाभावनाम्
  • (छ) नागार्जुनः युवकौ केन मार्गेण गन्तुं सूचितवान् ?
    • उत्तरम्: राजमार्गेण

२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु — (Answer in full sentences)

  • (क) अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?
    • उत्तरम्: अहोरात्रं नागार्जुनः प्रयोगशालायां कार्यं करोति स्म।
  • (ख) नागार्जुनः महाराजं किं निवेदितवान् ?
    • उत्तरम्: नागार्जुनः महाराजं निवेदितवान् – “महाराज ! मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति।
  • (ग) प्रथम: युवक: कथं कार्यं कृतवान् ?
    • उत्तरम्: प्रथमः युवकः रुग्णम् अपश्यत् तथापि सेवाभावनां विना यन्त्रवत् औषधनिर्माणं कृतवान्।
  • (घ) द्वितीय: युवक: राजमार्गे रुग्णम् दृष्ट्वा किं कृतवान् ?
    • उत्तरम्: द्वितीयः युवकः राजमार्गे रुग्णं दृष्ट्वा तं स्वगृहं नीतवान्, दिनद्वयं च तस्य सेवां कृतवान्।
  • (ङ) सेवाया: भावनां विना किं न भवेत् ?
    • उत्तरम्: सेवायाः भावनां विना चिकित्सकः न भवेत्।

३. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्गरूपाणि लिखन्तु — (Write the feminine forms)

उदाहरणम्: पठितवान् – पठितवती – पठितवत्यः

  • (क) पठितवान्: पठितवती – पठितवत्यः
  • (ख) गतवान्: गतवती – गतवत्यः
  • (ग) लिखितवान्: लिखितवती – लिखितवत्यः
  • (घ) खादितवान्: खादितवती – खादितवत्यः
  • (ङ) क्रीडितवान्: क्रीडितवती – क्रीडितवत्यः
  • (च) हसितवान्: हसितवती – हसितवत्यः
  • (छ) निवेदितवान्: निवेदितवती – निवेदितवत्यः
  • (ज) सूचितवान्: सूचितवती – सूचितवत्यः

४. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्गरूपाणि लिखन्तु — (Write the masculine forms)

उदाहरणम्: पठितवती – पठितवान् – पठितवन्तः

  • (क) पठितवती: पठितवान् – पठितवन्तः
  • (ख) कृतवती: कृतवान् – कृतवन्तः
  • (ग) दृष्टवती: दृष्टवान् – दृष्टवन्तः
  • (घ) दत्तवती: दत्तवान् – दत्तवन्तः
  • (ङ) प्रक्षालितवती: प्रक्षालितवान् – प्रक्षालितवन्तः
  • (च) धावितवती: धावितवान् – धावितवन्तः

५. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु — (Change sentences into past tense using ‘क्तवतु’ प्रत्यय)

उदाहरणम्:

  1. पिता कषायं पिबति। ➔ पिता कषायं पीतवान्।
  2. अहं पुस्तकं नयामि। ➔ अहं पुस्तकं नीतवान् / नीतवती।
  • (क) युवकः आपणं गच्छति। ➔ युवकः आपणं गतवान्।
  • (ख) सः रोटिकां खादति। ➔ सः रोटिकां खादितवान्।
  • (ग) महिला वस्त्रं ददाति। ➔ महिला वस्त्रं दत्तवती।
  • (घ) बालकः द्विचक्रिकया पतति। ➔ बालकः द्विचक्रिकया पतितवान्।
  • (ङ) पितामही चलच्चित्रं पश्यति। ➔ पितामही चलच्चित्रं दृष्टवती।
  • (च) अहं गृहपाठं लिखामि। ➔ अहं गृहपाठं लिखितवान् / लिखितवती।
  • (छ) त्वं कुत्र गच्छसि ? ➔ त्वं कुत्र गतवान् / गतवती ?
  • (ज) अश्वाः वने धावन्ति। ➔ अश्वाः वने धावितवन्तः।
  • (झ) बालिकाः शीघ्रम् आगच्छन्ति। ➔ बालिकाः शीघ्रम् आगतवत्यः।
  • (ञ) वयं समुद्रतीरे प्रोटिनं खादामः। ➔ वयं समुद्रतीरे प्रोटिनं खादितवन्तः / खादितवत्यः।

६. ‘स्म’ इति अव्ययपदम् उपयुज्य अनुच्छेदं पुनः लिखन्तु — (Rewrite the passage using ‘स्म’)

शीर्षकम्: कृषकः भूमिपुत्रः

कृषकः प्रतिदिनं कृषिक्षेत्रं गच्छति स्म। जलसेचनं करोति स्म। कीटानां निवारणार्थं जैवौषधिं स्थापयति स्म। सः कृषिकार्यार्थं सम्यक् जानाति स्म। अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म। सः स्वाभिमानेन जीवति स्म। अतः ‘अहं कृषकः भूमिपुत्रः’ इति साभिमानं वदति स्म। सः क्षेत्रे गोमयं योजयति स्म, न तु कृत्रिकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका भवति स्म। जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणन्ति स्म। एवं तस्य परिवारस्य सर्वे जना: कृषिकार्येण ससुखं जीवन्ति स्म। सः सर्वान् वदति स्म “कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः” इति।

error: Content is protected !!