Class 7 Sanskrit Chapter 10 “दशमः कः?

Class 7 Sanskrit Chapter 10 “दशमः कः?


Class 7 Sanskrit Chapter 10 “दशमः कः?” Question Answers (अभ्यासः)

१. कोष्‍ठकात समीचीनम् उत्तरं चित्वा लिखन्तु (Choose the correct option)

(क) कति बालकाः स्नातुं गताः?
(अ) दश
(विकल्पाः — पञ्च, द्वादश, दश)

(ख) कतमः बालकः नद्यां मग्नः इति निश्चितम् अकुर्वन्?
(अ) दशमः
(विकल्पाः — प्रथमः, दशमः, पञ्चमः)

(ग) दशमः कः आसीत्?
(अ) नायकः (गणयित्वा स्वयम्)
(विकल्पाः — नायकः, पथिकः, नदी)

(घ) कः सम्यक् रूपेण बालकान् गणितवान्?
(अ) पथिकः
(विकल्पाः — नायकः, पथिकः, बालकः)

(ङ) बालकाः काम् तीर्त्वा पारं गताः?
(अ) नदीम्
(विकल्पाः — पुष्करिणीम्, समुद्रम्, नदीम्)


२. पाठस्य आधारेण एकवाक्येन प्रश्नानाम् उत्तराणि लिखन्तु (Answer in one sentence based on the lesson)

(क) दश बालकाः किमर्थं नदीम् अगच्छन्?
उत्तरम्: दश बालकाः स्नातुम् नदीम् अगच्छन्।

(ख) नायकः किम् अपृच्छत्?
उत्तरम्: नायकः अपृच्छत् – “अपि सर्वे बालकाः नदीम् उत्तीर्णाः?”

(ग) बालकाः स्नातुम् कुत्र अगच्छन्?
उत्तरम्: बालकाः स्नातुम् नदीम् अगच्छन्।

(घ) बालकाः किं निश्चयम् अकुर्वन्?
उत्तरम्: बालकाः “दशमः नद्यां मग्नः” इति निश्चयम् अकुर्वन्।

(ङ) बालकाः कथं गृहम् अगच्छन्?
उत्तरम्: बालकाः सर्वे प्रहृष्टाः भूत्वा (आनन्देन) गृहम् अगच्छन्।


३. पट्टिकातः उचितं विशेषणपदं योजयित्वा वाक्यानि रचयन्तु (Match the correct ordinal number with fingers)

(क) करे द्वितीया अङ्गुलिः भवति तर्जनी।
(ख) अनामिका चतुर्थी अङ्गुलिः भवति।
(ग) करे प्रथमा अङ्गुलिः भवति अङ्गुष्ठः।
(घ) कनिष्ठिका पञ्चमी अङ्गुलिः भवति।
(ङ) करे तृतीया अङ्गुलिः भवति मध्यमा।


४. पट्टिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु — सप्ताहस्य दिवसाः (Days of the Week)

(क) सप्ताहस्य प्रथमः दिवसः कः?
उत्तरम्: सप्ताहस्य प्रथमः दिवसः रविवासरः अस्ति।

(ख) सप्ताहस्य कतमः दिवसः रविवासरः अस्ति?
उत्तरम्: सप्ताहस्य प्रथमः दिवसः रविवासरः अस्ति।

(ग) सप्ताहस्य षष्ठः दिवसः कः?
उत्तरम्: सप्ताहस्य षष्ठः दिवसः शुक्रवासरः अस्ति।

(घ) सप्ताहस्य कतमः दिवसः शनिवासरः अस्ति?
उत्तरम्: सप्ताहस्य सप्तमः दिवसः शनिवासरः अस्ति।

(ङ) सप्ताहस्य अन्तिमः दिवसः कः अस्ति?
उत्तरम्: सप्ताहस्य अन्तिमः दिवसः शनिवासरः अस्ति।


५. तालिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु — भारतीय-द्वादशमासाः (Indian Months)

(क) मासेषु पञ्चमः मासः कः?
उत्तरम्: मासेषु पञ्चमः मासः श्रावणः अस्ति।

(ख) मार्गशीर्षः कतमः मासः अस्ति?
उत्तरम्: मार्गशीर्षः नवमः मासः अस्ति।

(ग) मासेषु दशमः मासः कः?
उत्तरम्: मासेषु दशमः मासः पौषः अस्ति।

(घ) कार्तिकः कतमः मासः अस्ति?
उत्तरम्: कार्तिकः अष्टमः मासः अस्ति।

(ङ) मासेषु अन्तिमः मासः कः?
उत्तरम्: मासेषु अन्तिमः मासः फाल्गुनः अस्ति।


६. मञ्जूषां पश्यन्तु, उत्तरं लिखन्तु — आङ्ग्लमासाः (Gregorian Months)

(क) आङ्ग्लमासेषु दशमः मासः अक्तूबर-मासः।
(ख) फरवरीमासः द्वितीयः मासः अस्ति।
(ग) आङ्ग्लमासेषु अष्टमः मासः अगस्त-मासः।
(घ) सितम्बरमासः नवमः मासः अस्ति।
(ङ) आङ्ग्लमासेषु अन्तिमः मासः दिसम्बर-मासः।


७. अधोलिखिते गद्यांशे अङ्कानां स्थाने सङ्ख्यावाचकशब्दान् लिखन्तु (Fill in Sanskrit number words)

पूरितः गद्यांशः (Completed Paragraph):

एका (१) पाठशाला अस्ति। तत्र त्रयः (३) अध्यापकाः सन्ति। साहित्यकलायां विंशतिः (२०) छात्राः सन्ति। एकस्मिन् दिने एकः (१) निरीक्षकः आगतवान्। तस्मिन् दिने साहित्यकलायां पञ्चदश (१५) छात्राः उपस्थिताः। पञ्च (५) अनुपस्थिताः। निरीक्षकः दश (१०) शब्दान् लेखितुम् उक्तवान्। द्वौ (२) छात्रौ सप्त (७) शब्दान् सम्यक् लिखितवन्तौ। एकः (१) छात्रः सर्वान् अपि दश (१०) शब्दान् सम्यक् लिखितवान्। अवशिष्टाः द्वादश (१२) छात्राः नव (९) शब्दान् सम्यक् लिखितवन्तः।


error: Content is protected !!