Class 7 Sanskrit Chapter 7 ईशावास्यम् इदं सर्वम्
Class 7 Sanskrit Chapter 7 Solution: ईशावास्यम् इदं सर्वम् (Question & Answers)
१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु (Answer in One Word)
- (क) दैत्यराजः कः ? उत्तरम्: हिरण्यकशिपुः
- (ख) के हिरण्यकशिपुं ध्यायन्ति ? उत्तरम्: जनाः
- (ग) किं देवेभ्यः न दास्यन्ति ? उत्तरम्: यज्ञभागादिकम्
- (घ) कस्य दलनेन अपि सः जीवति ? उत्तरम्: गजस्य
- (ङ) राक्षसाः कुतः प्रह्लादं पातितवन्तः ? उत्तरम्: उत्तुङ्गशिखरात्
- (च) हिरण्यकशिपुः कस्मात् वरं प्राप्तवान् ? उत्तरम्: ब्रह्मदेवात्
- (छ) हरिः कुत्र अस्ति इति कः वदति ? उत्तरम्: प्रह्लादः
२. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखन्तु (Answer in Full Sentences)
- (क) के भीताः तिष्ठन्ति ? उत्तरम्: सुराः असुराः यक्ष-गन्धर्व-किन्नराः सर्वे भीताः तिष्ठन्ति।
- (ख) प्रह्लादः अहर्निशं किं करोति ? उत्तरम्: प्रह्लादः अहर्निशं हरेः गुणगानं करोति।
- (ग) प्रह्लादं कथं समुद्रे क्षिप्तवन्तः ? उत्तरम्: रज्जवा बद्ध्वा प्रह्लादं समुद्रे क्षिप्तवन्तः।
- (घ) नृसिंहः कथं बहिः आगच्छति ? उत्तरम्: नृसिंहः महता गर्जनेन स्तम्भात् बहिः आगच्छति।
- (ङ) हिरण्यकशिपुः केन स्तम्भं भङ्क्ष्यामि इति वदति ? उत्तरम्: हिरण्यकशिपुः खड्गेन स्तम्भं भङ्क्ष्यामि इति वदति।
३. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु (Fill in the Blanks – तृतीया विभक्तिः)
- (क) रामेण – रामाभ्याम् – रामैः
- (ख) चमसेन – चमसाभ्याम् – चमसैः
- (ग) आचार्येण – आचार्याभ्याम् – आचार्यैः
- (घ) आसन्देन – आसन्दाभ्याम् – आसन्दैः
- (ङ) बालिकया – बालिकाभ्याम् – बालिकाभिः
- (च) पेटिकया – पेटिकाभ्याम् – पेटिकाभिः
- (छ) मित्रेण – मित्राभ्याम् – मित्रैः
- (ज) वस्त्रेण – वस्त्राभ्याम् – वस्त्रैः
४. उदाहरणानुसारं रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु (Question Formation)
- (क) हिरण्यकशिपुः आगच्छति । प्रश्नम्: कः आगच्छति ?
- (ख) सुरासुराः सर्वे भीताः भविष्यन्ति । प्रश्नम्: के सर्वे भीताः भविष्यन्ति ?
- (ग) दैत्यराजः खड्गेन प्रहरति । प्रश्नम्: दैत्यराजः केन प्रहरति ?
- (घ) अहं प्रह्लादं मारयिष्यामि । प्रश्नम्: अहं कं मारयिष्यामि ?
- (ङ) तात ! हरिस्तु सर्वत्र अस्ति । प्रश्नम्: तात ! कः तु सर्वत्र अस्ति ?
- (च) पुत्रस्य विषये वक्तुम् इच्छति । प्रश्नम्: कस्य विषये वक्तुम् इच्छति ?
- (छ) नृसिंहः स्वनखैः हिरण्यकशिपुं मारितवान् । प्रश्नम्: नृसिंहः कैः हिरण्यकशिपुं मारितवान् ?
५. अधः प्रदत्तेषु रिक्तस्थानेषु तृतीया-विभक्त्यन्तानि रूपाणि लिखन्तु (Fill in the Blanks with Tritiya Vibhakti)
- (क) अहं मम खड्गेन (खड्ग) स्तम्भं भङ्क्ष्यामि।
- (ख) प्रह्लादः गजस्य पददलनेन (पददलन) अपि जीवति।
- (ग) सर्वे जनाः नारायणेन (नारायण) अनुगृहीताः।
- (घ) स्वनखैः (स्वनख) तव वक्षःस्थलं विदीर्य मारयिष्यामि।
- (ङ) बालिकाः शिक्षिकाभिः (शिक्षिका) सह चर्चां कुर्वन्ति।
६. उदाहरणानुसारं संयोज्य लिखन्तु (Sandhi / Join Words)
- (क) रमा + ईशः = रमेशः
- (ख) सुर + ईश्वरः = सुरेश्वरः
- (ग) नाग + इन्द्रः = नागेन्द्रः
- (घ) गज + इन्द्रः = गजेन्द्रः
- (ङ) माता + इव = मातेव
- (च) राम + इव = रामेव
- (छ) पर + उपकारः = परोपकारः
- (ज) मम + उपरि = ममोपरि
- (झ) सूर्य + उदयः = सूर्योदयः
- (ञ) रामेण + उक्तम् = रामेणोक्तम्
- (ट) तस्य + उपरि = तस्योपरि
७. उदाहरणानुसारं वाक्यानि वर्तमानकालतः भविष्यत्-काले परिवर्तयन्तु (Present to Future Tense)
- (क) सा आपणं गच्छति । – सा आपणं गमिष्यति।
- (ख) रमा क्रीडाङ्गणे क्रीडति । – रमा क्रीडाङ्गणे क्रीडिष्यति।
- (ग) बालाः फलानि खादन्ति । – बालाः फलानि खादिष्यन्ति।
- (घ) ताः योगासनं कुर्वन्ति । – ताः योगासनं करिष्यन्ति।
- (ङ) अहं निरन्तरं पठामि । – अहं निरन्तरं पठिष्यामि।
- (च) त्वं कस्मिन् विषये वदसि ? – त्वं कस्मिन् विषये वदिष्यसि ?
- (छ) आवां पाठं लिखावः । – आवां पाठं लेखिष्यावः।
- (ज) यूयं शालां गच्छथ । – यूयं शालां गमिष्यथ।
- (झ) ते बालिके वैद्ये भवतः । – ते बालिके वैद्ये भविष्यतः।
- (ञ) वयं श्लोकान् स्मरामः । – वयं श्लोकान् स्मरिष्यामः।
८. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु (Future Tense Tables – एकवचनम्, द्विवचनम्, बहुवचनम्)
- (क) बालकः कार्यं करिष्यति। – बालकौ कार्यं करिष्यतः। – बालकाः कार्यं करिष्यन्ति।
- (ख) सः शालां गमिष्यति। – तौ शालां गमिष्यतः। – ते शालां गमिष्यन्ति।
- (ग) त्वं श्लोकं वदिष्यसि। – युवां श्लोकं वदिष्यथः। – यूयं श्लोकं वदिष्यथ।
- (घ) अहं पुस्तकं दास्यामि। – आवां पुस्तकानि दास्यावः। – वयं पुस्तकानि दास्यामः।
- (ङ) छात्रा प्रदर्शनीं करिष्यति। – छात्रे प्रदर्शनीं करिष्यतः। – छात्राः प्रदर्शनीं करिष्यन्ति।
- (च) अहं भगवद्गीतां श्रोष्यामि। – आवां भगवद्गीतां श्रोष्यावः। – वयं भगवद्गीतां श्रोष्यामः।
- (छ) बालिका कथां लेखिष्यति। – बालिके कथां लेखिष्यतः। – बालिकाः कथां लेखिष्यन्ति।
- (ज) त्वं किं खादिष्यसि ? – युवां किं खादिष्यथः ? – यूयं किं खादिष्यथ ?