Class 7 Sanskrit Chapter 2: नित्यं पिबामः सुभाषितरसम्
Class 7 Sanskrit Chapter 2 Solution: नित्यं पिबामः सुभाषितरसम् (Question Answers)
अभ्यासः (Exercises)
1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु (Answer the following questions in one word):
- (क) नरः कतिविधैः वकारैः पूजितः भवति?
उत्तरम्: पञ्चविधैः - (ख) पुरुषेण कति दोषाः हातव्याः?
उत्तरम्: षड् - (ग) बुद्धिः केन शुध्यति?
उत्तरम्: ज्ञानेन - (घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते?
उत्तरम्: घटः - (ङ) आलस्यं केषां महान् रिपुः अस्ति?
उत्तरम्: मनुष्याणाम्
2. निम्नाङ्कितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु (Answer the following questions in full sentences):
- (क) नरः कथं पूजितो भवति?
उत्तरम्: नरः वस्त्रेण वपुषा वाचा विद्यया विनयेन च पञ्चभिः वकारैः युक्तः पूजितः भवति। - (ख) पुरुषेण के दोषाः हातव्याः?
उत्तरम्: पुरुषेण निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च इति षड् दोषाः हातव्याः। - (ग) कस्य बुद्धिः विस्तारिता भवति?
उत्तरम्: यः पठति, लिखति, पश्यति, परिपृच्छति, पण्डितान् उपाश्रयति च तस्य बुद्धिः दिवाकरकिरणैः नलिनीदलम् इव विस्तारिता भवति। - (घ) किं कृत्वा मनुष्यः नावसीदति?
उत्तरम्: उद्यमम् (परिश्रमम्) कृत्वा मनुष्यः नावसीदति। - (ङ) व्यासस्य वचनद्वयं किम्?
उत्तरम्: व्यासस्य वचनद्वयं – परोपकारः पुण्याय, परपीडनं च पापाय (भवति)।
3. उदाहरणानुसारं श्लोकांशान् यथायोग्यं योजयन्तु (Match the sloka parts):
| क-भागः | ख-भागः (उत्तरम्) |
|---|---|
| (क) विद्यया वपुषा वाचा | वस्त्रेण विनयेन च। |
| (ख) षड् दोषाः पुरुषेणेह | हातव्या भूतिमिच्छता। |
| (ग) अद्भिर्गात्राणि शुध्यन्ति | मनः सत्येन शुध्यति। |
| (घ) उत्तरं यत् समुद्रस्य | हिमाद्रेश्चैव दक्षिणम्। |
| (ङ) जलबिन्दुनिपातेन | क्रमशः पूर्यते घटः। |
4. निम्नलिखितानां वाक्यानां समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु (Write the corresponding sloka lines for the given sentences):
- (क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति।
उत्तरम्: प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः। - (ख) परिश्रमेण तुल्यः बन्धुः नास्ति।
उत्तरम्: नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति। - (ग) परोपकारेण मानवस्य पुण्यार्जनं भवति।
उत्तरम्: परोपकारः पुण्याय पापाय परपीडनम्। - (घ) हिन्दूमहासागरात् हिमालयपर्यन्तं भारतवर्षम्।
उत्तरम्: उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
5. अधोलिखितानां शब्दानाम् उदाहरणानुसारं पर्यायपदानि लिखन्तु (Write synonyms for the given words):
- यथा – वपुः – शरीरम् / गात्रम्
- (क) जलम् – अम्भः / तोयम्
- (ख) लोचनम् – नयनम् / नेत्रम्
- (ग) धनम् – वित्तम् / द्रविणम्
- (घ) बुद्धिः – मतिः / धीः
- (ङ) रिपुः – शत्रुः / वैरी
6. अधः रिक्तस्थानानि तृतीयाविभक्तेः समुचितरूपैः पूरयन्तु (Fill in the blanks using Tritiya Vibhakti forms):
| एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|
| सुधाखण्डेन | सुधाखण्डाभ्याम् | सुधाखण्डैः |
| वृक्षेण | वृक्षाभ्याम् | वृक्षैः |
| लतया | लताभ्याम् | लताभिः |
| देशेन | देशाभ्याम् | देशैः |
| पुण्येन | पुण्याभ्याम् | पुण्यैः |
| विनयेन | विनयाभ्याम् | विनयैः |
7. कोष्ठके पदानि संलिख्य सुभाषितं पूरयन्तु (Fill in the gaps to complete the Subhashitani):
(i) भारतवर्ष-श्लोकः:
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः॥
(ii) प्रियवाक्य-श्लोकः:
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यम् वचने का दरिद्रता॥
8. उपयुक्तानि सुभाषितानि पठित्वा रिक्तस्थानानि पूरयन्तु (Fill in the blanks based on the chapter slokas):
- (क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
- (ख) तस्मात् तदेव वक्तव्यम् वचने का दरिद्रता।
- (ग) यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
- (घ) स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च।
- (ङ) विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति।