Class 7 Sanskrit Chapter 1: वन्दे भारतमातरम् Vande Bharatamataram
Class 7 Sanskrit Chapter 1 Vande Bharatamataram Question Answers (अभ्यासः)
1. एकपदेन पदद्वयेन वा उत्तरं लिखन्तु (Answer in one or two words)
- (क) पर्वतराजः कः ? उत्तरम्: हिमालयः
- (ख) समुद्रः कस्याः चरणौ प्रक्षालयति ? उत्तरम्: भारतमातुः
- (ग) त्रिवर्णयुक्तः ध्वजः कुत्र विलसति ? उत्तरम्: भारतमातुः हस्ते
- (घ) ध्वजस्थः केशरवर्णः अस्मान् किं वक्तुम् प्रेरयति ? उत्तरम्: ‘जयतु सैनिकः’ इति
- (ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति ? उत्तरम्: स्व-स्वेदबिन्दुभिः
- (च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति ? उत्तरम्: वैज्ञानिकानाम्
- (छ) सूर्यः कं विना नित्यं सञ्चरति ? उत्तरम्: विरामम्
2. पूर्णवाक्येन उत्तरं लिखन्तु (Answer in full sentences)
- (क) पवित्राः नद्यः काः ? उत्तरम्: गङ्गा, यमुना, सरस्वती, सिन्धुः, ब्रह्मपुत्रः, गण्डकी, महानदी, नर्मदा, गोदावरी, कृष्णा, कावेरी इत्यादयः पवित्राः नद्यः सन्ति।
- (ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति ? उत्तरम्: विविधेभ्यः प्रदेशेभ्यः जनाः तीर्थक्षेत्राणां धूलं ललाटे स्थापयितुम् आगच्छन्ति।
- (ग) धर्मचक्रं किं भावं बोधयति ? उत्तरम्: धर्मचक्रं ‘चलीयं कर्तव्यपथे वै, न विरम, सततं चल’ इति भावं बोधयति।
- (घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता ? उत्तरम्: कृषकबान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी समृद्धा सस्यश्यामला च सञ्जाता।
- (ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम् ? उत्तरम्: विज्ञानस्य अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्साशास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु विविधेषु क्षेत्रेषु भारतीयैः यशः प्राप्तम्।
- (च) अन्ते सर्वे किं गीतं गायन्ति ? उत्तरम्: अन्ते सर्वे “वयं बालका भारतभक्ताः वयं बालिका भारतभक्ताः। वयं हि सर्वे भारतभक्ताः पृथिवीं स्वर्गं जेतुं शक्ताः॥” इति गीतं गायन्ति।
3. रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु (Frame questions using the underlined words)
- (क) समुद्रः भारतमातुः चरणौ प्रक्षालयति। प्रश्ननिर्माणम्: समुद्रः कस्याः चरणौ प्रक्षालयति ?
- (ख) जनाः तीर्थक्षेत्राणां धूलं ललाटे स्थापयन्ति। प्रश्ननिर्माणम्: जनाः केषाम् धूलं ललाटे स्थापयन्ति ?
- (ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः। प्रश्ननिर्माणम्: के भारतमातुः सर्वदा सेवां कृतवन्तः ?
- (घ) ‘जयतु कृषकः’ इति वक्तुम् अस्मान् प्रेरयति। प्रश्ननिर्माणम्: किम् इति वक्तुम् अस्मान् प्रेरयति ?
- (ङ) नदी कष्टानि सहमाना प्रवहति। प्रश्ननिर्माणम्: नदी कानि सहमाना प्रवहति ?
- (च) वयं गौरववर्धनाथै प्रयत्नं कुर्मः। प्रश्ननिर्माणम्: वयं किमर्थम् प्रयत्नं कुर्मः ?
4. उदाहरणानुसारं रिक्तस्थानेषु रूपाणि लिखन्तु (Fill in the blanks with correct Noun Forms)
| पदम् | एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
|---|---|---|---|---|
| (क) चरण | चरणम् | चरणौ | चरणान् | द्वितीया विभक्तिः |
| (ख) नदी | नदी | नद्यौ | नद्यः | प्रथमा विभक्तिः |
| (ग) ललाट | ललाटे | ललाटयोः | ललाटेषु | सप्तमी विभक्तिः |
| (घ) देश | देशाय | देशाभ्याम् | देशेभ्यः | चतुर्थी विभक्तिः |
| (ङ) चक्र | चक्रम् | चक्रे | चक्राणि | प्रथमा विभक्तिः |
| (च) वैज्ञानिक | वैज्ञानिकेन | वैज्ञानिकाभ्याम् | वैज्ञानिकैः | तृतीया विभक्तिः |
| (छ) अस्मद् | अहम् | आवाम् | वयम् | प्रथमा विभक्तिः |
| (ज) विज्ञान | विज्ञानस्य | विज्ञानयोः | विज्ञानानाम् | षष्ठी विभक्तिः |
5. वाक्यानाम् अनुवादं कुर्वन्तु (Translate the following sentences)
- (क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति।
- English Translation: Holy rivers flow in the land of India.
- Hindi Translation: भारत भूमि पर पवित्र नदियाँ बहती हैं।
- (ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते।
- English Translation: The Himalayas shine like a crown on the head of India.
- Hindi Translation: भारत के मस्तक पर हिमालय मुकुट के रूप में सुशोभित होता है।
- (ग) भारतभूमौ श्रेष्ठः पर्वताः विराजन्ते।
- English Translation: Great mountains adorn the land of India.
- Hindi Translation: भारत भूमि पर श्रेष्ठ पर्वत विराजमान हैं।
- (घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति।
- English Translation: There are saffron, white, and green colors in the national flag.
- Hindi Translation: राष्ट्रध्वज में केसरिया, सफेद और हरा रंग है।
- (ङ) वयं भारते जन्म प्राप्तवन्तः।
- English Translation: We have taken birth in India.
- Hindi Translation: हमने भारत में जन्म लिया है।
6. विभक्तिं वचनं च लिखन्तु (Write the Case/Vibhakti and Number/Vachanam)
| शब्दः | विभक्तिः | वचनम् |
|---|---|---|
| (क) भारतमाता | प्रथमा विभक्तिः | एकवचनम् |
| (ख) नद्यः | प्रथमा विभक्तिः | बहुवचनम् |
| (ग) ललाटे | सप्तमी विभक्तिः | एकवचनम् |
| (घ) तीर्थक्षेत्राणाम् | षष्ठी विभक्तिः | बहुवचनम् |
| (ङ) देशस्य | षष्ठी विभक्तिः | एकवचनम् |
| (च) बलिदानम् | द्वितीया / प्रथमा विभक्तिः | एकवचनम् |
| (छ) कृषीवलबान्धवाः | प्रथमा विभक्तिः | बहुवचनम् |
| (ज) अस्मान् | द्वितीया विभक्तिः | बहुवचनम् |
| (झ) क्षेत्रेषु | सप्तमी विभक्तिः | बहुवचनम् |
7. पाठे प्रयुक्तानि क्रियापदानि लिखन्तु (Write Verbs used in the chapter)
उत्तरम्: शृणुमः, जानीमः, अस्ति, लिखितवान्, करोमि, वर्ण्यते, शोभते, प्रक्षालयति, विराजन्ते, प्रवहन्ति, आगच्छन्ति, प्रेरयति, सिञ्चन्ति, बोधयति, सञ्चरति, भवेत्, कुर्मः, इच्छामः, भवामः, गायन्ति।
8. लट्-लकारस्य रूपाणि लिखन्तु (Verb Conjugations – Present Tense)
1. भू (भवति) धातु
- प्रथमपुरुषः: भवति | भवतः | भवन्ति
- मध्यमपुरुषः: भवसि | भवथः | भवथ
- उत्तमपुरुषः: भवामि | भवावः | भवामः
2. अस् (अस्ति) धातु
- प्रथमपुरुषः: अस्ति | स्तः | सन्ति
- मध्यमपुरुषः: असि | स्थः | स्थ
- उत्तमपुरुषः: अस्मि | स्वः | स्मः
3. इष् (इच्छति) धातु
- प्रथमपुरुषः: इच्छति | इच्छतः | इच्छन्ति
- मध्यमपुरुषः: इच्छसि | इच्छथः | इच्छथ
- उत्तमपुरुषः: इच्छामि | इच्छावः | इच्छामः
4. आ + गम् (आगच्छति) धातु
- प्रथमपुरुषः: आगच्छति | आगच्छतः | आगच्छन्ति
- मध्यमपुरुषः: आगच्छसि | आगच्छथः | आगच्छथ
- उत्तमपुरुषः: आगच्छामि | आगच्छावः | आगच्छामः