Class 7 Sanskrit Chapter 3 मित्राय नमः

Class 7 Sanskrit Chapter 3 “मित्राय नमः” Question Answers (अभ्यासः)

१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखतु — (Answer in one word)

  • (क) शुभं भवतु इति कः वदति ? उत्तरम्: आचार्या
  • (ख) योगिता आचार्यां ‘किं पाठयतु’ इति वदति ? उत्तरम्: सूर्यनमस्कारम्
  • (ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति ? उत्तरम्: द्वादशानाम्
  • (घ) केषु सूर्यनमस्कारः श्रेष्ठः ? उत्तरम्: योगासनेषु
  • (ङ) सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति ? उत्तरम्: स्वस्थम्

२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखतु — (Answer in full sentences)

  • (क) सर्वे छात्राः आचार्यां किं पृच्छन्ति ? उत्तरम्: सर्वे छात्राः आचार्यां पृच्छन्ति – “आचार्ये ! किमद्य भवान् अस्मान् योगासनं शिक्षयति ?”
  • (ख) सूर्यनमस्कारः इत्यनेन कः आशयः ? उत्तरम्: सूर्यनमस्कारः द्वादशानाम् आसनानां समाहारः अस्ति ।
  • (ग) आचार्या कं श्लोकं पाठयति ? उत्तरम्: आचार्या एतं श्लोकं पाठयति – आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने । आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते ॥
  • (घ) सूर्यनमस्कारस्य प्रथमः मन्त्रः कः ? उत्तरम्: सूर्यनमस्कारस्य प्रथमः मन्त्रः ‘ॐ मित्राय नमः’ इति अस्ति ।
  • (ङ) सूर्यनमस्कारेण कीदृशं बलं वर्धते ? उत्तरम्: सूर्यनमस्कारेण शारीरिकं, मानसिकम्, आध्यात्मिकं च बलं वर्धते ।

३. पाठात् समुचितं पदं चित्वा अधः रिक्तस्थानानि पूरयतु — (Fill in the blanks)

  • (क) प्रत्येकस्मात् सूर्यनमस्कारात् पूर्वम् एकः मन्त्रः भवति ।
  • (ख) वयं प्रतिदिनं सूर्यनमस्कारं करवाम ।
  • (ग) स्वस्थं शरीरं स्वस्थं मनः च प्राप्नुवाम ।
  • (घ) एकेन श्लोकेन सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि ।
  • (ङ) आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।

४. पाठे विद्यमानानां ‘नमः’ युक्तशब्दानां सङ्ग्रहं कृत्वा लिखतु — (Collect words with ‘नमः’)

  1. ॐ मित्राय नमः
  2. ॐ रवये नमः
  3. ॐ सूर्याय नमः
  4. ॐ भानवे नमः
  5. ॐ खगाय नमः
  6. ॐ पूष्णे नमः
  7. ॐ हिरण्यगर्भाय नमः
  8. ॐ मरीचये नमः
  9. ॐ आदित्याय नमः
  10. ॐ सवित्रे नमः
  11. ॐ अर्काय नमः
  12. ॐ भास्कराय नमः (अतिरिक्तः – ॐ सवितृसूर्यनारायणाय नमः)

५. उदाहरणानुसारं कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयतु — (Form sentences using Chaturthi Vibhakti with ‘नमः’)

नियमः: ‘नमः’ शब्दस्य योगे चतुर्थी विभक्तिः भवति ।
यथा: मित्राय नमः ।

  • (क) अग्नये नमः ।
  • (ख) आचार्यायै नमः ।
  • (ग) त्रिवर्णध्वजाय नमः ।
  • (घ) जनकाय नमः ।
  • (ङ) वृक्षाय नमः ।
  • (च) देव्यै नमः ।
  • (छ) भगिन्यै नमः ।
  • (ज) मातामह्यै नमः ।
  • (झ) जनन्यै नमः ।
  • (ञ) पृथिव्यै नमः ।
  • (ट) नद्यै नमः ।

६. कोष्ठके विद्यमानानां शब्दानां चतुर्थी-विभक्तेः रूपाणि प्रयुज्य वाक्यानि पुनः लिखन्तु — (Rewrite using Chaturthi Vibhakti)

यथा: सैनिकः (देश) जीवनं प्रयच्छति । → सैनिकः देशाय जीवनं प्रयच्छति ।

  • (क) माता (याचक) वस्त्रं ददाति । → माता याचकाय वस्त्रं ददाति ।
  • (ख) पौत्रः (पितामही) औषधं ददाति । → पौत्रः पितामह्यै औषधं ददाति ।
  • (ग) अहम् (भगिनी) उपायनं ददामि । → अहम् भगिन्यै उपायनं ददामि ।
  • (घ) पिता (सेविका) वेतनं ददाति । → पिता सेविकायै वेतनं ददाति ।
  • (ङ) त्वम् (मित्र) पुष्पं ददासि । → त्वम् मित्राय पुष्पं ददासि ।
  • (च) देवः (भक्त) आशीर्वादान् ददाति । → देवः भक्ताय आशीर्वादान् ददाति ।
  • (छ) आरक्षकः (चोर) दण्डं ददाति । → आरक्षकः चोराय दण्डं ददाति ।

७. उदाहरणानुसारं माता कस्मै/कस्यै धनं ददाति इति कोष्ठके विद्यमानानि पदानि उपयुज्य लिखतु — (Write sentences using Chaturthi forms)

यथा: माता पुत्र्यै धनं ददाति ।

  • (क) माता पुत्राय धनं ददाति ।
  • (ख) माता पाचिकायै धनं ददाति ।
  • (ग) माता आपणिकाय धनं ददाति ।
  • (घ) माता याचकाय धनं ददाति ।
  • (ङ) माता पितामह्यै धनं ददाति ।

८. उदाहरणानुसारं रिक्तस्थानानि पूरयतु — (Fill in the blanks with Chaturthi Vibhakti forms)

शब्दःएकवचनम्द्विवचनम्बहुवचनम्
गणेशगणेशायगणेशाभ्याम्गणेशेभ्यः
(क) भक्तभक्तायभक्ताभ्याम्भक्तेभ्यः
(ख) सेविकासेविकायैसेविकाभ्याम्सेविकाभ्यः
(ग) अनुजाअनुजायैअनुजाभ्याम्अनुजाभ्यः
(घ) गृहिणीगृहिण्यैगृहिणीभ्याम्गृहिणीभ्यः
(ङ) कुमारीकुमार्यैकुमारीभ्याम्कुमारीभ्यः
(च) वनवनायवनाभ्याम्वनेभ्यः
(छ) मित्रमित्रायमित्राभ्याम्मित्रेभ्यः

परियोजनाकार्यम् (Project Work Shloka – Chaturthi Vibhakti Words)

श्लोकः:
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥

अस्मिन् श्लोके चतुर्थी-विभक्तिरूपाणि:
विवादाय, मदाय, परिपीडनाय, ज्ञानाय, दानाय, रक्षणाय।

error: Content is protected !!