Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्तयाक्षरीम्

Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्तयाक्षरीम् Kridaam Vayam Shlokantyaksharim


NCERT Class 7 Sanskrit Chapter 6 Solutions: क्रीडाम वयं श्‍लोकान्तयाक्षरीम्


१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु (Answer in One Word)

  • (क) विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते?
    उत्तरम्: निर्गन्धाः
  • (ख) धीमतां कालः कथं गच्छति?
    उत्तरम्: काव्यशास्त्रविनोदेन
  • (ग) केषां कालः निद्रया कलहेन वा गच्छति?
    उत्तरम्: मूर्खाणाम्
  • (घ) खलस्य विद्या किमर्थम्?
    उत्तरम्: विवादाय
  • (ङ) सज्जनस्य विद्या किमर्थम्?
    उत्तरम्: ज्ञानाय
  • (च) चन्द्रः केषां भूषणम् अस्ति?
    उत्तरम्: ताराणाम्
  • (छ) सर्वधनप्रधानं किम्?
    उत्तरम्: विद्याधनम्

२. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु (Answer in Full Sentences)

  • (क) निर्गन्धाः किंशुकाः इव के न शोभन्ते?
    उत्तरम्: रूपयौवनसम्पन्नाः विशालकुलसम्भवाः विद्याहीनाः जनाः निर्गन्धाः किंशुकाः इव न शोभन्ते।
  • (ख) मूर्खाणां कालः कथं गच्छति?
    उत्तरम्: मूर्खाणां कालः व्यसनेन, निद्रया, कलहेन वा गच्छति।
  • (ग) दुर्जनाः विद्यायाः धनस्य शक्तेः च उपयोगं कथं कुर्वन्ति?
    उत्तरम्: दुर्जनाः विद्यायाः उपयोगं विवादाय, धनस्य मदाय, शक्तेः च उपयोगं परेषां परिपीडनाय कुर्वन्ति।
  • (घ) कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति?
    उत्तरम्: येषां न विद्या, न तपः, न दानम्, न ज्ञानम्, न शीलम्, न गुणः, न धर्मः, ते मनुष्याः भुवि भारभूताः भवन्ति।
  • (ङ) शनैः शनैः कानि साध्यन्ते?
    उत्तरम्: पन्थाः, कन्था, पर्वतलङ्घनम्, विद्या, वित्तं च – एतानि पञ्च शनैः शनैः साध्यन्ते।

३. उचितान् वाक्यांशान् परस्परं संयोजयन्तु (Match the Columns)

स्तम्भ ‘क’स्तम्भ ‘ख’
तदा वृत्तिश्च कीर्तिश्चयदा विद्या भवेदिह
खलस्य साधोर्विपरीतमेतत्ज्ञानाय दानाय च रक्षणाय
शनैर्विद्या शनैर्वित्तंपञ्चैतानि शनैः शनैः
विद्याहीना न शोभन्तेनिर्गन्धा इव किंशुकाः
न चोरहार्यं न च राजहार्यम्न भ्रातृभाज्यं न च भारकारि
विद्या राजसु पूज्यतेन हि धनम्
अतो धर्मार्थमोक्षेभ्यःविद्याभ्यासं समाचरेत्

४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु (Question Formation)

  • (क) राजा पृथिव्याः भूषणं भवति।
    प्रश्नम्: राजा कस्याः भूषणं भवति?
  • (ख) साधोः विद्या ज्ञानाय भवति।
    प्रश्नम्: कस्य विद्या ज्ञानाय भवति?
  • (ग) विद्या गुरूणाम् गुरुः।
    प्रश्नम्: विद्या केषाम् गुरुः?
  • (घ) ते मृत्युलोके भुवि भारभूताः भवन्ति।
    प्रश्नम्: ते मृत्युलोके भुवि कीदृशाः भवन्ति?
  • (ङ) विद्याहीनाः न शोभन्ते।
    प्रश्नम्: के न शोभन्ते?
  • (च) सर्वस्य लोचनं शास्त्रम्।
    प्रश्नम्: सर्वस्य लोचनं किम्?
  • (छ) विद्या राजसु पूज्यते।
    प्रश्नम्: का राजसु पूज्यते?
  • (ज) काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
    प्रश्नम्: केन कालो गच्छति धीमताम्?

५. मञ्जूषातः समुचितानि पदानि स्वीकृत्य रिक्तस्थानानि पूरयन्तु (Fill in the Blanks)

मञ्जूषा: रक्षणाय, मदाय, विवादाय, परिपीडनाय, ज्ञानाय, दानाय

पदम्सज्जनस्यदुर्जनस्य
शक्तिःरक्षणायपरिपीडनाय
विद्याज्ञानायविवादाय
धनम्दानायमदाय

६. अधोलिखितपदानां विभक्तिं वचनं च लिखन्तु (Vibhakti and Vachanam)

उदाहरणम्: ताराणाम् – षष्ठी विभक्तिः, बहुवचनम्

  • (क) विद्याम् – द्वितीया विभक्तिः, एकवचनम्
  • (ख) धनस्य – षष्ठी विभक्तिः, एकवचनम्
  • (ग) कलहे – सप्तमी विभक्तिः, एकवचनम्
  • (घ) नराणाम् – षष्ठी विभक्तिः, बहुवचनम्
  • (ङ) मृत्युलोके – सप्तमी विभक्तिः, एकवचनम्
  • (च) ज्ञानाय – चतुर्थी विभक्तिः, एकवचनम्
  • (छ) राजसु – सप्तमी विभक्तिः, बहुवचनम्

error: Content is protected !!